तथाहि (।)

फलवैचित्र्यदृष्टेश्च शक्तिभेदोऽनुमीयते ।
कर्मणां तापसंक्लेशात् नैकरूपात् ततः क्षयः ॥ २७७ ॥

कर्मणां फलवैचित्र्यस्य524 नानागत्युपभोग्याने
कविधोपकरणसाध्यविविधसुख
दुःखोपभोगप्रकारस्य दृष्टेश्च शक्तिभेदः सामर्थ्यनानात्वमनुमीयतेऽतो नानाप्रकार
फलजननसामर्थ्यात् का525रणादेकरूपात् फलात्तापसंक्लेशान्न कर्मणां क्षयः । (२७७)

  1. भोगाभोगरोगारोग्यादिः ।

  2. उत्पित्सुश्लोकावताराय परमतं लिख्यते । स्यादेतत् (।) तृष्णा हि कर्मनिदानं
    तस्याश्च मार्ग्गात् क्षयो निदानिनोपि कर्मणः क्षयात् त्वयापि कर्मणां क्षय एवेष्टः ।
    येपि दोषविरोधिन उपाया नैरात्म्यदर्शनलक्षणा इष्यन्ते । दोषनिदानं तृष्णान्ते
    उपघ्नन्ति । असत्यां तृष्णायां अनागतदोषानुत्पत्तिः । उत्पित्सुदोषनिर्घातात्ते
    शक्ता । अनेन चातीतकर्मनिदानतृष्णादिबाधको न भवत्येव मार्ग्गस्तदुत्पत्तिकाले
    तस्याभावादेवेत्यसिद्धिरुक्ता परे (रैः?) । यवगोधूमाद्यनेकबीजेष्वनेकाङकुरवत् ।