105
क्लेशात् कुतश्चिद्धीयेताशेषमक्लेशलेशतः ॥

b. यच्च किञ्चिदवशिष्टं तत् क्लेशात् कुतश्चित् केशोल्लुञ्चनादेः क्षीयते ।
कर्मक्षयाच्च मुक्तिः । अत्राह527 (।)

हीयेताशेषमक्लेशलेशतः । यदि तपसा कर्मक्षयोऽशेषं कर्म हीयेताक्लेशतो
विनैव केशोल्लुञ्चनादि
दुःखात्कर्मणः क्षीणत्वाद्यथा नारकादि दुःखं न भवति
तथाऽल्पीयोपि न स्यात् । शक्तिसांकर्येपि लेशतः सन्तापक्लेशात् केवलात् कर्म
हीयेत । न दुःखान्तरानुबन्धी संसारप्रबन्धः तपस्विनः स्यात् ।

यदीष्टमपरं क्लेशात् तत् तपः क्लेश एव चेत् ॥ २७९ ॥
तत् कर्मफलमित्यस्मान्न शक्तेः सङ्करादिकम् ॥

तपसः शक्त्या शक्तिसङ्करसंक्षयश्च तदा वक्तुं शक्यो यदि स्यादिष्टं
क्लेशादपर528
मन्यत्तपो नान्यथा । क्लेश एव चेत्तत्तपः । (२७९) तत्क्लेशरूपं तपः कर्मफलं (तपोऽवशेषितस्य कर्मणः फलमिष्ट) मित्यस्मात्कर्मफलभूतात्तप529सः
शक्तिसंकरादिकं न
युक्तं । आदिशब्दात्संक्षयश्च ।

C. तस्य530 मते तु (।)

उत्पित्सुदोषनिर्घाताद् येऽपि दोषविरोधिनः ॥ २८० ॥
तज्जे कर्माणि शक्ताः स्युः कृतहानिः कथं भवेत् ॥

उत्पित्सोस्तृष्णादेर्दोषस्य निर्घातात् येपि दोषविरोधिनो नैरात्म्याभ्यासादय
उपायाः (२८०) तज्जे तृष्णादिदोषप्रभवे कर्मणि कारणवारणद्वारेण व्याहन्तुं
शक्ता न प्राग्जनिते तस्योत्प531न्नत्वात् । अतः कृतस्य कर्मणो हानिः
कथम्भवेत्
 ।

d. ननु यथा दोषेभ्यः कर्म तथा कर्मणो दोषाश्च भवन्तीत्यक्षीणकर्मणो न
स्यात् मुक्तिरित्याह (।)

दोषा न कर्मणो दुष्टः करोति न विपर्ययात् ॥ २८१ ॥
106

दोषा न कर्मणो भवन्ति किन्तु दोषैर्दुष्टः प्राणी कर्मकरो भवति न विप

र्ययात्
 । नादुष्टः कर्म करोति नैरात्म्यदर्शिनस्तृष्णाभावात् । क्वचित् प्रवृत्तिनिवृत्त्य
सम्भवात् । (२८१)

  1. अत्र शक्तेः क्षयः साङ्कर्यम्वेति पक्षौ द्वौ ।

  2. केशोल्लुञ्चनादेरन्यत् कुशलरूपं तपोपीष्टं स्यात् ।

  3. फलस्य कर्तृत्वायोगात् संकरक्षये ।

  4. यन्मते मार्ग्गात्तृष्णाक्षये कर्मणोपि क्षय इष्टः ।

  5. पूर्व्वकृतकमेक्षयो नेति न कृतस्य हानिः ।