106

दोषा न कर्मणो भवन्ति किन्तु दोषैर्दुष्टः प्राणी कर्मकरो भवति न विप

र्ययात्
 । नादुष्टः कर्म करोति नैरात्म्यदर्शिनस्तृष्णाभावात् । क्वचित् प्रवृत्तिनिवृत्त्य
सम्भवात् । (२८१)

ननु कर्मणः शुभात् सुखं सुखादभिलाषोऽभिलाषाच्च राग इति कर्मणो दोष
जन्मेत्याह (।)

मिथ्याविकल्पेन विना नाभिलाषः सुखादपि ।

यश्च सुखादप्यभिलाषो रागहेतुर्दृश्यते स च मिथ्याविकल्पेन विना स्थिर
सुखमदीयाहंकारविकल्पनमन्तरेण न भवतीत्यायोनिशोमनस्कार एव दोषहेतुः
न कर्म । ततः सत्यपि कर्मण्युन्मूलितात्मदृष्टयो निर्दोषा निर्व्वान्ति । निर्व्वाणञ्च

दुःखनिरोधलक्षणं । दुःखं परिज्ञाय तत्समुदयं मार्गभावनया प्रहाय प्राप्यते नान्य
थेति ।

चतुःसत्यप्रकाशक एव मुमुक्षूणामुपास्य इति तायित्वमुक्तं ।

ङ. तायात् सुगतत्वसिद्धिः

तदेवमनुलोमतः >प्रमाणभूताये त्यादि पञ्चपदानि व्याख्याय प्रतिलोमतो
लिङ्गलैङ्गिकत्वं दर्शयन्नाह (।)

तायात् तत्त्वस्थिराशेषविशेषज्ञानसाधनम् ॥ २८२ ॥

तायाच्चतुःसत्यप्रकाशलक्षणात् लिङ्गात् तत्त्वस्थिराशेषविशेषज्ञानस्य532
त्रिगुणस्य सुगतत्वस्य साध533नं सिद्धिः । तत्त्वस्य क्षणिकनैरात्म्यस्य ज्ञानात् प्रशस्तं ।
(२८२)

बोधार्थत्वाद् गमेः;

अपुनरावृ
त्त्या च स्थिरं निःशेषं विशेषज्ञानं त्रिगुणं सुगतत्वं बोधार्थत्वाद् गमेर्गतशब्दः प्रकृतिः । न हि सम्वादिनोऽसाक्षात्कृतस्यार्थस्य उपदेशः शक्यक्रियः (।)
न चानुमानेन ज्ञातस्योपदेश इति युक्तमुक्तं । क्षणिकत्वनैरात्म्यादिविषयस्यानु
मानस्य भगवदुपदेशमन्तरेणोत्पत्तिबीजाभावात् अगृहीतोपदेशानामभावात् ।
न च नित्यपरोक्षस्यार्थस्य स्थैर्यादिविपर्ययाध्यवसायिनः कश्चिन्निश्चयोऽस्ति ।

  1. तत्त्वञ्च स्थिरञ्चाशेषञ्च तैर्व्विशिष्यत इति विशेषज्ञानं ।

  2. चतुःसत्यविषयमशेषत्वं ।