b. यच्च किञ्चिदवशिष्टं तत् क्लेशात् कुतश्चित् केशोल्लुञ्चनादेः क्षीयते ।
कर्मक्षयाच्च मुक्तिः । अत्राह527 (।)
हीयेताशेषमक्लेशलेशतः । यदि तपसा कर्मक्षयोऽशेषं कर्म हीयेताक्लेशतो
विनैव केशोल्लुञ्चनादि
दुःखात्कर्मणः क्षीणत्वाद्यथा नारकादि दुःखं न भवति
तथाऽल्पीयोपि न स्यात् । शक्तिसांकर्येपि लेशतः सन्तापक्लेशात् केवलात् कर्म
हीयेत । न दुःखान्तरानुबन्धी संसारप्रबन्धः तपस्विनः स्यात् ।
तपसः शक्त्या शक्तिसङ्करसंक्षयश्च तदा वक्तुं शक्यो यदि स्यादिष्टं
क्लेशादपर528मन्यत्तपो नान्यथा । क्लेश एव चेत्तत्तपः । (२७९) तत्क्लेशरूपं तपः कर्मफलं (तपोऽवशेषितस्य कर्मणः फलमिष्ट) मित्यस्मात्कर्मफलभूतात्तप529सः
शक्तिसंकरादिकं न
युक्तं । आदिशब्दात्संक्षयश्च ।
C. तस्य530 मते तु (।)
उत्पित्सोस्तृष्णादेर्दोषस्य निर्घातात् येपि दोषविरोधिनो नैरात्म्याभ्यासादय
उपायाः (२८०) तज्जे तृष्णादिदोषप्रभवे कर्मणि कारणवारणद्वारेण व्याहन्तुं
शक्ता न प्राग्जनिते तस्योत्प531न्नत्वात् । अतः कृतस्य कर्मणो हानिः
कथम्भवेत् ।
d. ननु यथा दोषेभ्यः कर्म तथा कर्मणो दोषाश्च भवन्तीत्यक्षीणकर्मणो न
स्यात् मुक्तिरित्याह (।)