यदि हि सामान्यं सामान्यं स्यात् द्व्याकारा बुद्धिर्भवेत् । विशेषमात्राकारैव
तु प्रत्यक्षबुद्धिरुपलभ्यते ।

तस्माद् विशेषविषया सर्वैवेन्द्रियजा मतिः ॥
न विशेषेषु शब्दानां प्रवृत्तावस्ति सम्भवः ॥ १२७ ॥

तस्मात्सर्व्वैवेन्द्रियजा मतिर्व्विशेषमात्रविषयाऽन्यस्यानुपलब्धेः । न च विशेषेषु
शब्दानां प्रवृत्तौ संभवोस्ति
(१२७)