88-b
एभ्य एव स्थिरादीनि जले पक्त्वैकविंशतिम् ।
रसे तस्मिन्पचेत्सर्पिगृष्टिक्षीरचतुर्गुणम् ॥ २९ ॥
वीराद्विमाषकाकोलीस्वयंगुप्तर्षभर्द्धिभिः ।
मेदया च समैः कल्कैस्तत्स्यात्कल्याणकं महत् ।
बृंहणीयं विशेषेण सन्निपातहरं परम् ॥ ३० ॥
पञ्चमूल्यवकाश्मर्यौ रास्नैरण्डत्रिवृद्बला ।
मूर्वा शतावरी चेति क्वाथ्यैर्द्विपलिकैरिमैः ॥ ३१ ॥
कल्याणकस्य चाङ्गेन तद्धृतं चैतसं स्मृतम् ।
सर्वचेतोविकाराणां शमनं परमं मतम् ॥ ३२ ॥
घृतप्रस्थोऽत्र पक्तव्यः क्वाथो द्रोणाम्भसा वृतात् ।
चतुर्गणोऽत्र सम्पाद्यः कल्कः कल्याणकेरितः ॥ ३३ ॥
जटिला पूतना केशी चारटी मर्कटी वचा ।
त्रायमाणा जयावीरा चोरकः कटुरोहिणी ॥ ३४ ॥
वयस्था शूकरी छत्रा सातिच्छत्रा पलङ्कषा ।
महापरुषदन्ता च वयस्था नाकुलीद्वयम् ॥ ३५ ॥