180-a
जीवककल्कं पश्चा-
त्सिक्थकसर्जरसमिश्रितं हरति ।
घृतमभ्यङ्गात्पावक-
दग्धो दुःखं क्षणार्धेन ॥ ४६ ॥
अन्तर्दग्धकुठारको दहनजं लेपान्निहन्ति व्रण-
मश्वत्थस्यविशुष्कवल्कलकृतं चूर्णं तथा गुण्डनात्
अभ्यङ्गाद्विनिहन्तितैलमखिलं गण्डूपदैः साधितं
पिष्ट्वा शाल्मलितूलकैर्जलगता लेपात्तथा वालुकाः ॥ ४७ ॥
सद्यः क्षतं व्रणं वैद्यः सशूलं परिषेचयेत् ।
यष्टीमधुककल्केन किञ्चिदुष्णेन सर्पिषा ॥ ४८ ॥
बुद्ध्वागन्तुव्रणं वैद्यो घृतं क्षौद्रसमन्वितम् ।
शीतां क्रियां प्रयुञ्जीत पित्तरक्तोष्मनाशिनीम् ॥ ४९ ॥
कान्तक्रमुकमेकं सुश्लक्ष्णं गव्यसर्पिषा पिष्टम् ।
शमयति लेपान्नियतं व्रणमागन्तूद्भवं न सन्देहः ॥ ५० ॥
अपामार्गस्य संसिक्तं पत्रोत्थेन रसेन वा ।
सद्यो व्रणेषु रक्तं तु प्रवृत्तं परितिष्ठति ॥ ५१ ॥
कर्पूरपूरितं बद्धं सघृतं संप्ररोहति ।
सद्यः शस्त्रक्षतं पुंसां व्यथापाकविवर्जितम् ॥ ५२ ॥
शरपुङ्खा काकजङ्घा प्रसूत महिषीमलम् ।
लज्जा च सद्यस्कव्रणघ्नं पृथगेव तु ॥ ५३ ॥
शुनो जिह्वाकृतश्चूर्णः सद्यः क्षतविरोहणः ।
चक्रतैलं क्षते विद्धे रोपणं परमं मतम् ॥ ५४ ॥
यवक्षारं भक्षयित्वा पिण्डं दद्याद्व्रणोपरि ।
शृंगालकोलिमूलेन नष्टशैलं विनिःसरेत् ॥ ५५ ॥
लाङ्गलीमूललेपाद्वा गवाक्षीमूलतस्तथा ।
क्षतोष्मणो निग्रहार्थं तत्कालं विसृतस्य च ॥ ५६ ॥