अथवा प्रस्तुतमेव तावत् सुविहितं करिष्ये ।
अन्ये च चित्तवृत्तिविशेषा एतेषामेव विभावानुभावस्वरूपानुप्रवेशान्न पृथग्वाच्याः ।
नन्वन्येऽपि सन्ति चित्तवृत्तिविशेषा इति तेऽपि वाच्याः । तत्राह अन्ये चेति ।
अथ स्थायी—
सजातीयविजातीयभावान्तरैरतिरस्कृतत्वेनोपनिबध्यमानो रत्यादिः स्थायी । यथा बृहत्कथायां 898नरवाहनदत्तस्य 899मदनमञ्जर्यामनुरागः तत्तदवान्तरनायिकानुरागैरतिरस्कृतः स्थायी । यथा च मालतीमाधवे श्मशानाङ्के बीभत्सेन मालत्यनुरागस्यातिरस्कारो मम हि प्राक्तनोपलम्भसंभावितात्मजन्मनः संस्कारस्यानवरतप्रबोधात् प्रतायमानस्तद्विसदृशौः प्रत्ययान्तरैरतिरस्कृतप्रवाहः प्रियतमाप्रत्ययोत्पत्तिसंतानस्तन्मयमिव करोति 900वृत्तिसारूप्यतश्चैतन्यम् इत्यादिनोपनिबद्धः । तदनेन प्रकारेण विरोधिनामविरोधिनां च समावेशो न विरोधी ।
तथा हि—कथं विरोधः ? सहानवस्थानं बाध्यबाधकभावो वा ? उभयरूपो901 न तावत् । स्वादात्मनि902तस्यैकरूपत्वेनाविर्भावात् । स्थायिनां विभावादीनां903च यदि विरोधः, तत्रापि न तावत् सहानवस्थानम् । रत्याद्युपरक्ते चेतसि स्रक्सूत्रन्यायेनाविरोधिनां व्यभिचारिणां विरोधिनां चोपनिबन्धः समस्तभावकस्वसंवेदनसिद्धः । यथैव च स्वसंवेदनसिद्धस्तथैव काव्यव्यापार
-
A.T.A. reads prākṛtasya naravāhanadattasya.
↩ -
N.S.P. madanamañjūṣāyām. A.T.A. gives madanamañjaryām. The name is found as Madanamañcukā in Somadeva’s Kathāsaritsāgara, VI. 8–95. Budhasvāmin’s Bṛhatkathāślokasaṃgraha has it as madanamañjukā, VII. 17.
↩ -
N.S.P., antarvṛtti-.
↩ -
N.S.P. ubhayarūpeṇāpi.
↩ -
This is a better reading than tādātmyasya eka-, etc. given in N.S.P.
↩ -
It is not clear why it is vibhāvādīnām. As he is discussing the virodha between sthāyibhāva and vyabhicāribhāva, bhāvādīnāmperhaps would be suitable. I do not know whether vyabhicārin-sare also referred to as vibhāva-s in any text.
↩