242 ताश्च सोदाहृतयो नायकप्रकाशे दर्शिताः ।
तत्र संभोगशृङ्गारे स्त्रीणां दाक्षिण्यमार्दवप्रेम्णामनुरूपा दशसंख्याश्चेष्टाः प्रवर्तन्त इत्याह तत्रेति । तर्हि ता अपीह वक्तव्याः । नेत्याह ताश्चेति ।
ग्राम्यः संभोगो रङ्गे निषिद्धोऽपि काव्येऽपि न कर्तव्य इति पुनर्निषिध्यते । यथा रत्नावल्याम्—
ननु पूर्वमेव निषिद्धं ग्राम्यं पुनः किं निषिध्यते । तत्राह ग्राम्यः संभोग इति । किमस्ति तत् काव्ये । ओमित्युदाहरणेन दर्शयति यथेति1143 । नायिकाप्रभृतीनामुक्तेऽपि लक्षणे न तन्मात्रेण कविर्निबध्नीयात् । किं तु कविपरंपरामवगम्य स्वयमुचितमेतत् संभावितमेतदिति चावगम्य तदानुगुण्येन शृङ्गारादिरसं निबध्नीयादित्याह नायिकेत्यादि ।
अथ वीरः—