57 अथ विबोधः402—
यथा रत्नावल्याम्—
देव, कुत इयं कन्यका ? देवी जानाति । 403अज्जउत्त, एसा सागरादो पाविअत्ति भणिअ अमच्चजोगंधराअणेण मम हत्थे निहिदा । अदो ज्जेव सागरिअत्ति सद्दावीअदि ।
यथा च वेणीसंहारे—
मुञ्चतु मुञ्चतु मामार्यः क्षणमेकम् । किमपरमवशिष्टम् ? सुमहदवशिष्टम् । संयमयामि तावदनेन दुःशासनशोणितोक्षितेन पाणिना पाञ्चाल्या दुःशासनावकृष्टं केशहस्तम् । गच्छतु भवान् । अनुभवतु तपस्विनी वेणीसंहारम् ।405
अथ ग्रथनम्—
यथा रत्नावल्याम्—
देव, क्षग्यतां यद्देवस्यानिवेद्य मयैतत् कृतम् ।406
यथा च वेणीसंहारे—
पाञ्चालि, न खलु मयि जीवति संहर्तव्या दुःशासनविलुलिता वेणिरात्मपाणिना । तिष्ठतु । स्वयमेवाहं संहरामि ।407