104 स्वाधीनपतिका, वासकसज्जा, विरहोत्कण्ठिता, खण्डिता, कलहान्तरिता, विप्रलब्धा, प्रोषितप्रिया, अभिसारिका इत्यष्टौ स्वस्त्रीप्रभृतीनामवस्थाः । नायिकाप्रभृतीनामप्यवस्थारूपत्वे सत्यवस्थान्तराभिधानं पूर्वासां धर्मित्वप्रतिपादनाय । अष्टाविति न्यूनाधिकव्यवच्छेदः । न च वासकसज्जादेः स्वाधीनपतिकादावन्तर्भावः । अनासन्नप्रियत्वात् । वासकसज्जाया न स्वाधीनपतिकात्वम् । यदि चैष्यत्प्रियापि स्वाधीनपतिका 590प्रोषितप्रियापि स्वाधीनपतिका तदा प्रोषितप्रियापि न पृथग्वाच्या । न चेयता 591व्यवधानेनासत्तिरियता त्वनासत्तिरिति नियन्तुं शक्यम् । न चाविदितप्रियव्यलीकायाः खण्डितात्वं, नापि प्रवृत्तरतिभोगेच्छायाः प्रोषितप्रियात्वं, स्वयमगमनान्नायकं प्रत्यप्रयोजकत्वान्नाभिसारिकात्वम् । एवमुत्कण्ठिताप्यन्यैव पूर्वाभ्यः । औचित्यप्राप्तप्रियागमनसमयातिवृत्तिविधुरा न वासकसज्जा । तथा विप्रलब्धापि वासकसज्जावदन्यैव पूर्वाभ्यः । उक्त्वा नायात इति प्रतारणाधिक्याच्च वासकसज्जोत्कण्ठितयोः पृथक् । कलहान्तरिता तु यद्यपि विदितव्यलीका तथाप्यगृहीतप्रियानुनया पश्चात्तापप्रकाशितप्रसादा पृथगेव खण्डितायाः । तत् स्थितमेतदष्टाववस्था इति ।
आसामिति स्वस्त्रीप्रभृतीनां संग्रह इति दर्शयति स्वस्त्रीप्रभृतीनामवस्था इति । ननु नायकनायिकाप्रभृतिशब्दानामपि गुणापादितावस्थावचनत्वादासां भेद एव वक्तव्यः । पुनः किमवस्थाग्रहणेन । तत्राह नायिकाप्रभृतीनामपीति । शब्दाधिक्यमर्थाधिक्यफलमिति न्यायात् नायिकाप्रभृतीनां धर्मिणीनां स्वाधीनपतिकात्वादयः कथं धर्मा भवेयुरिति पुनस्तद्ग्रहणम् । अन्यथा हि यस्या नायिकात्वमवस्था, तस्या एव स्वाधीनपतिकात्वमिति 592अवस्थावन्त एव एते भेदा अपि धर्मा भवेयुः, न पुनर्नायिकानामिति । ननु स्वरूपालोचनेनैव एषामष्टत्वे सिद्धे पुनः किमष्टत्वग्रहणेन । तत्राह अष्टाविति 593न्यूनाधिकव्यवच्छेद इति । न्यूनत्वमेवाशङ्क्य समादधाति न चेत्यादिना । ननु विशेषे गोत्वादौ चतुष्पात्त्वस्यानन्तर्भावेऽपि