129 सात्त्वतीमुपसंहरन्नारभटीलक्षणमाह—
माया मन्त्रबलेनाविद्यमानवस्तुप्रकाशनम् । तन्त्रबलादिन्द्रजालम् ।
मायेन्द्रजालयोर्वैषम्यमाह मायेति ।
तत्र—
मृद्वंशदलचर्मादिद्रव्ययोगेन वस्तूत्थापनं संक्षिप्तिः । यथोदयनचरिते किलिञ्जहस्तिप्रयोगः । पूर्वनायकावस्थानिवृत्त्यावस्थान्तरपरिग्रहमन्ये संक्षिप्तिकां मन्यन्ते । यथा वालिनिवृत्त्या सुग्रीवः । यथा च परशुरामस्यौद्धत्यनिवृत्त्या शान्तत्वापादनं पुण्या ब्राह्मणजातिः—670 इत्यादिना ।
पूर्वनायकेति । धर्मिभेदोऽङ्गीकृतः पूर्वत्र । अपरत्र 671एकस्मिन्नपि धर्मिणि धर्मभेदोऽङ्गीकृत इति व्याख्याविकल्पः ।
अथ संफेटः—
यथा माधवाघोरघण्टयोर्मालतीमाधवे । इन्द्रजिल्लक्ष्मणयोश्च रामायणप्रतिबद्धवस्तुषु ।