87 सहायान्तरमाह—
गीतादिविद्यानां नायकोपयोगिनीनामेकस्या विद्याया वेदिता विटः । हास्यकारी विदूषकः । अस्य च539 विकृताकारवेषादित्वं हास्यकारित्वेनैव लभ्यते । यथा शेखरको नागानन्दे विटः । विदूषकः प्रसिद्ध एव ।
नन्वेकविद्यामात्रेण प्रयोगोपयोगो नास्ति । तत्राह गीतादिविद्यानामित । ननु विदूषकस्य वक्ष्यमाणं विकृताकारवेषादित्वं नोपात्तम् । तत्राह अस्य चेति ।
अथ प्रतिनायकः—
तस्य नायकस्येत्थंभूतः प्रतिपक्षनायको भवति । यथा रामयुधिष्ठिरयोः रावणदुर्योधनौ ।
सूत्रस्यैवं संगतिरित्याह तस्य नायकस्येति ।
तत्र—