139 नेत्यप्युच्यत इत्याह प्रस्तावना वेति । तत्रेति । कथोद्धातः प्रवृत्तकं प्रयोगातिशयश्च त्रयोदश वीथ्यङ्गानि च भवेयुरित्यर्थः ।
तत्र कथोद्धातः—
वाक्यं यथा रत्नावल्याम्—
द्वीपादन्यस्मादपि707
वाक्यार्थं यथा वेणीसंहारे—
ततोऽर्थेनाह—
स्वेतिवृत्तसममिति । यत्र पात्रं स्वेतिवृत्तसमं सूत्रधारस्य वाक्यं वाक्यार्थं वा गृहीत्वा प्रविशेत् स कथोद्धातः । स च द्विविध इत्यर्थः । तथैवोदाहरति वाक्यमिति ।