193 यथा— किं लोभेन विलङ्घितः स भरतो येनैतदेवं कृतं सद्यः स्त्रीलघुतां गता किमथवा मातैव मे मध्यमा । मिथ्यैतन्मम चिन्तितं द्वितयमप्यार्यानुजोऽसौ गुरु- र्माता तातकलत्रमित्यनुचितं मन्ये विधात्रा कृतम् ॥
अथवा— कः समुचिताभिषेकादार्यं प्रच्यावयेद् गुणज्येष्ठम् । मन्ये ममैष पुण्यैः सेवावसरः कृतो विधिना ॥
अथावहित्थम्—
यथा कुमारसंभवे— एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी । लीलाकमलपत्राणि गणयामास पार्वती ॥887
अथ व्याधिः—
दिङ्मात्रं तु यथा— अच्छिन्नं नयनाम्बु बन्धुषु कृतं चिन्ता गुरुभ्योऽर्पिता दत्तं दैन्यमशेषतः परिजने तापः सखीष्वाहितः । अद्य श्वः परिनिर्वृतिं व्रजति सा श्वासैः परं खिद्यते विश्रब्धो भव विप्रयोगजनितं दुःखं विभक्तं तया ॥
Generating a file for download may take up to a few minutes. Please wait.
This dialog should close automatically when the download has completed.