228 अन्योन्यानुरागो यथा तत्रैव—
मधुराङ्गविचेष्टितं यथा तत्रैव—
त्रयस्त्रिंशद् व्यभिचारिणश्चाष्टौ स्थायिनोऽष्टौ सात्त्विकाश्चेत्येकोनपञ्चाशद् भावा युक्त्या अङ्गत्वेनोपनिबध्यमानाः शृङ्गारं संपादयन्ति । आलस्यौग्र्यजुगुप्सामरणादीन्येकालम्बनविभावाश्रयत्वेन साक्षादुपनिबध्यमानानि विरुध्यन्ते । प्रकारान्तरेण चाविरोधः प्राक् प्रतिपादित एव ।
एकालम्बनविभावाश्रयत्वेनेति । एतानि आलस्यादीनि तावदेकालम्बनविभावाश्रयत्वेनोपनिबध्यमानानि विरुध्यन्ते । तथात्वेऽपि साक्षादुपनिबध्यमानानि विरुध्यन्ते । तेन भिन्नालम्बनाश्रयत्वेनोपनिबन्धनीयानि । एकालम्बनाश्रयत्वेऽपि व्यवधानेनोपनिबन्धनीयानीत्यर्थः ।