244 विनयादिभूस्तदुदाहरणेनैव दर्शितप्राय इत्याह विनयादिष्विति । तत्र युद्धवीरे एतावन्तो वीरानुभावा एतावन्तो रौद्रानुभावा इति विविनक्ति प्रस्वेदेति ।
अथ बीभत्सः—
अत्यन्ताहृद्यैः कृमिपूतिगन्धिप्रायविभावैरुद्भावितो जुगुप्सास्थायिभावपरिपोषणलक्षण उद्वेगी बीभत्सः । यथा मालतीमाधवे—
रुधिरान्त्रवसाकीकसमांसादिविभावितः क्षोभणो बीभत्सः । यथा वीरचरिते—