246 वैरिवैकृताद् यथा वेणीसंहारे—
क्रोध इति । मात्सर्यवैरिवैकृतादिभिः समानेषूत्पन्नः क्रोधस्थायिभावजन्मा चित्तक्षोभाधरदंशनादिभिरनुभावितोऽमर्षप्रभृतिभिर्व्याभिचारिभावैः परं प्रकर्षामागतो रौद्ररसो भवतीत्यर्थः ।
अथ हास्यः—
आत्मस्थान् विकृतवेषभाषादीन् परस्थान् वा विभावानवलम्बमानो हासः, तत्परिपोषात्मा हास्यो रसो द्व्यधिष्ठानो भवति । प्रतिस्वं1158 चोत्तममध्यमाधमप्रकृतिभेदात् षड्विधः ।
विकृताकृतिवाग्वेषैरिति । आत्मनो वा परस्य वा विकृताभिर्वाग्भिः विकृतैर्वेषैश्च जायमानाद्धासादुद्भूतस्त्रिप्रकृतिर्हास्यो रसः स्मृत इत्यर्थः । आत्मपरभेदेन द्विविधकारणजन्मनो हासाज्जायमानतया द्विविधो हास्योऽपि प्रत्येकमुत्तममध्यमाधमभेदेन त्रिविध इत्याह प्रतिस्वं चेति ।
आत्मस्थो यथा रावणः—