लोकसीमातिवर्तिपदार्थवर्णनादिविभावितः साधुवादाद्यनुभावपरिपुष्टो विस्मयस्थायिभावो हर्षावेगादिव्यभिचारिभावो रसोऽद्भुतः । यथा—
अतिलोकैरिति । अतिलोकपदार्थदर्शनादिजन्मना विस्मयेनोद्भूतः साधुवादादिभिरनुभाविती हर्षावेगादिभिर्व्यभिचारिभिः प्रकृष्टः अद्भुतात्मा रसो भवतीत्यर्थः ।
अथ भयानकः—
रौद्रशब्दश्रवणाद् रौद्रवस्तुदर्शनाच्च भयस्थायिभावप्रभवो भयानको रसः । तत्र सर्वाङ्गवेपथुप्रभृतयोऽनुभावाः । दैन्यादयस्तु व्यभिचारिणः । भयानको यथा प्रागुदाहृतः—