182 यथा माघे— त्रस्यन्ती चलशफरीविघट्टितोरुर्वामोरूरतिशयमाप विभ्रमस्य । क्षुभ्यन्ति प्रसभमहो विनापि हेतोर्लीलाभिः किमु सति कारणे रमण्यः ॥847
अथासूया—
गर्वे यथा वीरचरिते— अर्थित्वे प्रकटीकृतेऽपि न फलप्राप्तिः प्रभोः प्रत्युत द्रुह्यन् दाशरथिर्विरुद्धचरितो युक्तस्तया कन्यया । उत्कर्षं च परस्य मानयशसोर्विस्रंसनं चात्मनः स्त्रीरत्नं च जगत्पतिर्दशमुखो दृप्तः कथं मृप्यते ॥848
दौर्जन्याद् यथा— यदि परगुणा न क्षम्यन्ते यतस्व गुणार्जने नहि परयशो निन्दाव्याजैरलं परिमार्जितुम् । विरमसि न चेदिच्छाद्वेषप्रसक्तमनोरथो दिनकरकरान् पाणिच्छत्रैर्नुदन् श्रममेष्यसि ॥
मन्युजा यथामरुशतके— पुरस्तन्व्या गोत्रस्खलनचकितोऽहं नतमुखः प्रवृत्तौ वैलक्ष्यात् किमपि लिखितुं दैवहतकः । स्फुटो रेखान्यासः कथमपि स तादृक् परिणतो गता येन व्यक्तिं पुनरवयवैः सैव तरुणी ॥
Generating a file for download may take up to a few minutes. Please wait.
This dialog should close automatically when the download has completed.