19 अर्थप्रकृतीनामिति । बीजादीनामर्थप्रकृतीनामवस्थाभिः पञ्चभिर्योगात् यथासंख्यं संधयो भवन्ति । बीजस्यारम्भेणान्वयो मुखसंधिः । बिन्दोः प्रयत्नेनान्वयः प्रतिमुखसंधिः । पताकायाः प्राप्त्याशयान्वयो गर्भसंधिः । यद्यप्यनियतैव पताका, तथापि यदा पताका भवति तदानीमवस्थापर्वणा प्राप्त्याशया145 योगात् तन्निबन्धनगर्भसंधिर्भवति । यदा तु सा नास्ति तदानीं गर्भसंधिः146 केवला प्राप्त्याशा भवतीति । एवमुपर्यपि नेयम् ।
संधिलक्षणमाह—
अर्थप्रकृतीनां पञ्चानां यथासंख्येनावस्थाभिः पञ्चभिर्योगाद्यथासंख्येनैव 149वक्ष्यमाणलक्षणा मुखाद्याः पञ्च संधयो जायन्ते ।
संधिसामान्यलक्षणमाह—
एकेन प्रयोजनेनान्वितानां कथांशानामवान्तरैकप्रयोजनसंबन्धः संधिः ।
यद्यपि रूपकेषु मुखाद्याः पञ्चापि संधयो भवन्ति, तथापि सामान्यत एवेतिवृत्तमात्रगामिनि ज्ञाते हि संधौ संधिविशेषो ज्ञायते । तेन संधिसामान्यलक्षणं संप्रति ब्रूत इत्याह संधिसामान्यलक्षणमाहेति ।
के पुनस्ते संधयः—
यथोद्देशं लक्षणमाह—
-
Gr.MS. and Tri.MS. read what is given in the text. T.MS. and M.G.T. read as prāptyāśāyogāt.
↩ -
This reading garbhasaṃdhiḥ kevalā prāptyāśā bhavatīti is found in M.G.T. Tri.MS. reads as garbhasaṃdhiṃ kevalaprāptyāśā bhavatīti. T.MS. and Gr.MS. seem to read garbhasaṃdhiṃ vinā. The reading garbhasaṃdhiḥ kevalā prāptyāśā bhavatīti seems to me to be preferable. See the Introduction for a discussion on the arthaprakṛtis, avasthās and saṃdhis.
↩ -
N.S.P. yathoditā.
↩ -
N.S.P. -lābhacakravartitva-, etc.
↩ -
N.S.P. vakṣyamāṇā mukhādyāḥ.
↩ -
N.S.P. antaraikārthasaṃbandhaḥ.
↩ -
‘संश्रया’ इति पाठः.
↩