22 इति वैतालिकमुखेन चन्द्रतुल्यवत्सराजगुणवर्णनया सागरिकायाः समागमहेत्वनुरागबीजानुगुण्येनैव विलोभनाद् विलोभनमिति ।
यथा च वेणीसंहारे— इत्यादिना यशोदुन्दुभिः161 इत्यन्तेन द्रौपद्या विलोभनाद् विलोभनमिति ।
अथ युक्तिः—
यथा रत्नावल्याम्—
मया पि चैनां देवीहस्ते सबहुमानं निक्षिपता युक्तमेवानुष्ठितम् । कथितं च मया यथा बाभ्रव्यः कञ्चुकी सिंहलेश्वरामात्येन वसुभूतिना सह कथंकथमपि समुद्रादुत्तीर्य कोशलोच्छित्तये
गतेन162 रुमण्वता घटितः ।163
अथ प्राप्तिः—