अथ पुष्पम्—
पुष्पं वाक्यं विशेषवत् ॥ ३४ ॥
यथा रत्नावल्याम्—
वयस्य, सत्यम्—राजा सागरिकां हस्ते गृहीत्वा स्पर्शं नाटयति
इत्यनेन नायकयोः साक्षादन्योन्यदर्शनादिना सविशेषानुरागोद्धाटनात् पुष्पम् ।राजा
श्रीरेषा पाणिरप्यस्याः पारिजातस्य पल्लवः ।
कुतोऽन्यथा स्रवत्येष स्वेदच्छद्मामृतद्रवः ॥271