34 अथ पर्युपासनम्—
पर्युपास्तिरनुनयः
यथा रत्नावल्याम्— इत्यनेन चित्रगतयोर्नायकयोर्दर्शनात् कुपिताया वासवदत्ताया267 अनुरागोद्धाटनान्वयेन पर्युपासनमिति ।
अथ पुष्पम्—
पुष्पं वाक्यं विशेषवत् ॥ ३४ ॥
यथा रत्नावल्याम्—
वयस्य, सत्यम्—राजा सागरिकां हस्ते गृहीत्वा स्पर्शं नाटयति
इत्यनेन नायकयोः साक्षादन्योन्यदर्शनादिना सविशेषानुरागोद्धाटनात् पुष्पम् ।राजा
श्रीरेषा पाणिरप्यस्याः पारिजातस्य पल्लवः ।
कुतोऽन्यथा स्रवत्येष स्वेदच्छद्मामृतद्रवः ॥271