6 ज्ञानं फलमुक्तं व्रजति जनो येन वैदग्धीम्57 इति । न च दशरूपज्ञानं स्वतः फलम् । किंतु फलान्तरहेतुतया, पश्वादिवत् । 58तत् फलान्तरं कीदृशमित्यर्थः । तत्प्रदर्शनपरस्य श्लोकस्यायमर्थः । आनन्दनिष्यन्दीनि ह 59त्रिवर्गव्युत्पत्तिकराणि रूपकाणि । तत् तेषां यः साधुरल्पबुद्धिः सन्नितिहासादीनामिव 60त्रिवर्गव्युत्पत्त्यादिमात्रफलतामाह स्वादपराङ्मुखाय तस्मै नम इति । तमिमं तथा व्याख्यास्यन् यैस्त्रिवर्गव्युत्पत्तिमात्रफलत्वमुक्तं तेषां 61मूलं दर्शयति धर्मार्थकामेति । अत्र चतुर्वर्गप्रसङ्गात् पठितस्यापि मोक्षस्याभिनयशून्यतया तमनादृत्य त्रिवर्गपरतामेवास्य ग्रन्थस्य स्वरीत्या दर्शयन् तथैव पठति त्रिवर्गादिव्युत्पत्तिमिति । स्वसंवेद्येति । स्वसंवेद्यो निरतिशयसुखसंविद्रूपः परमानन्दः । स एव रसः । तस्य स्वतः प्रकाशमानस्य आस्वादो नाम अन्तःकरणे प्रतिबिम्बितस्य काव्यार्थेन तत्र संक्रान्तेन संबन्धः । तस्माद् रूपकाणां तथाविधो रसास्वाद एव फलमिति । न केवलं त्रिवर्गादिव्युत्पत्तिरेव किंतु सापीति दर्शितं मात्रशब्देन । ऋजुबुद्धीनुपच्छन्दयति नम इति सोल्लुण्ठनमिति ।
नाट्यानां लक्षणं संक्षिपामि62 इत्युक्तम्, किं पुनस्तन्नाट्यमित्याह—
काव्योपनिबद्धधीरोदात्ताद्यवस्थानुकारश्चतुर्विधाभिनयेन 63वाचिकाङ्गिकसात्त्विकाहार्यरूपेण तादात्म्यापत्तिर्नाट्यम् ।
विषयप्रयोजनोक्तयैव तदन्तर्गतः संबन्धोऽप्युक्तः । एवं प्रतिपन्नप्रयोजनाभिधेयसंबन्धं64 जिज्ञासुं पृच्छन्तं प्रत्युत्तरमाहेति वदति किं पुनरिति । कीदृश्योऽवस्थाः किदृशी चानुकृतिरित्यपेक्षायां व्याचष्टे काव्योपनिबद्धेति । अभिनयाकृष्टमभिनेयं तच्छब्देन परामृशति तादात्म्यापत्तिरिति65 । अभिनयस्यारोपरूपत्वात् । चातुर्विध्यं च तस्याङ्गिकसात्त्विकवाचिकाहार्यभेदात् । एतदुक्तं भवति । रामादिनायका न स्वरूपेणोपयुज्यन्ते । अभिनयकाले तेषामसत्त्वात् । किं तु काव्योपनिबद्धधीरोदात्ताद्यवस्थावद्रूपेण । नायकादि
- १।३↩
-
In T.MS. tat is missing.
↩ -
Tri. MS. reads ānandaniṣyandiṣv iti, and M.G.T. ānandaniṣyandīti. Both read trivargavyutpattikarāṇi ca rūpakāṇi. The particle ha is a prasiddhyarthakāvyaya, and the significance intended here seems to be this: yāni trivargavyutpattikarāṇi rūpakāṇi tāni ānandaniṣyandīni ha, ānandaniṣyandīni iti prasiddhāni (rasikasamāje). evaṃ sati tatrānandāṃśaṃ parityajya yaḥ sādhuḥ vyutpattyādimātraphalatām āha tasmai namaḥ, etc. See Vaijayantī for the meaning of ha.
↩ -
Tri.MS. reads vyutpattimātraphalatām āha.
↩ -
Only in T.MS. mūlam seems to be missing.
↩ - १।४↩
-
vācikāṅgika ... rūpeṇa is missing in N.S.P.
↩ -
M.G.T. gives the reading shown in the text. Tri.MS. reads saṃbandhajijñāsum. T.MS. reads evaṃ pratipanne prayojanābhidheyasaṃbandhajijñāsum.
↩ -
Cf.:
↩sāttvikādyair abhinayaiḥ prekṣakāṇāṃ yato bhavet |naṭe nāyakatādātmyabuddhis tan nāṭyam ucyate ||avasthānukṛtir nāṭyam iti sāmānyalakṣaṇam |rāmāditādātmyāpattir naṭe yā nāṭyam ucyate ||