7 शब्दाः खलूपाधिप्रयुक्ताः । उपाधयश्चावस्थाः । एकस्यैव हि धीरोदात्तत्वधीरोद्धतत्वधीरललितत्वधीरशान्तत्वानि भवन्ति । अतस्ता अवस्था एव तत्प्रवृत्त्युपाधय इति ।
तदेव नाट्यं दृश्यमानतया रूपमित्युच्यते, नीलादिरूपवत् ।
तदेवेति । तदेव नाट्यं रूपमित्युच्यते । यथा नीलादिरूपस्य दृश्यत्वगुणयोगः एवमिदमपि दृश्यत्वगुणयोगाद् रूपमित्युच्यते । यथा माणवके ज्वलनशब्दो66 गौणः एवं 67नाट्यस्थो रूपशब्दोऽपि गौण इत्यर्थः ।
नटे रामाद्यवस्थारोपेण वर्तमानत्वाद् रूपकम् । मुखचन्द्रादिवदित्येकस्मिन्नर्थे प्रवर्तमानस्य शब्दत्रयस्य इन्द्रः पुरंदरः शक्रः इतिवत् प्रवृत्तिनिमित्तभेदो दर्शितः ।
नट इति । यथा मुखे चन्द्रत्वसमारोपात् मुखं चन्द्रः, एवं नटे रामाद्यवस्थारोपात् नटोऽपि रामादिः । मुखचन्द्रादिवदिति । मुखचन्द्रत्वादिवदित्यर्थः । ननु नाट्यरूपरूपकशब्दा यदि भिन्नार्थाः तर्हि 68एकवव्द्यवहारो न स्यात् । अस्ति च सः नाट्यानां लक्षणं संक्षिपामीति, दशरूपानुकारेणेति, आनन्दनिष्यान्दिषु रूपकेष्विति च । अथैकार्थाः, तदा सामानाधिकरण्यं न स्यात् । न हि घटो घट इति सामानाधिकरण्यम् । तत्राह एकस्मिन्निति । 69पर्यवसानस्यैकत्वादेषामेकार्थत्वेन व्यवहारः । प्रवृत्तिनिमित्तभेदाच्च सामानाधिकरण्यम् । यथा परमैश्वर्यं शक्तत्वं विक्रमत्वं चोपाधीकृत्य एकस्मिन्नर्थे प्रवर्तमानस्य इन्द्रादिशब्दत्रयस्य एकार्थत्वं सामानाधिकरण्यं च एवमिहापीति ।
रसानाश्रित्य प्रवर्तमानं दशप्रकारकम् । एवेत्यवधारणं तु70 शुद्धाभिप्रायेण, नाटिकायाः संकीर्णत्वेन वक्ष्यमाणत्वात् ।
-
M.G.T. reads analaśabdaḥ.
↩ -
M.G.T. reads evaṃ nāṭyārtho rūpaśabdo gauṇa ity arthaḥ.
↩ -
This is the reading in Tri.MS. M.G.T. reads tarhi eka eva vyavahāro. Gr. MS. reads tarhi aikyavyavahāro na syāt. asti ca saṃprati. T.MS. gives as tasyaikavyavahāro na syāt.
↩ -
Gr.MS. and T.MS. read paryavasānasthānasya.
↩ -
tu is given by Bh. Nr., but missing in N.S.P.
↩