10 इत्यादिस्तालाध्यायप्रतिपादितस्तालः । लयो द्रुतादिरिति । द्रुतविलम्बितमध्यमादिरूपो लयः । कालस्य स्वतो भेदाभावाद् औपाधिक एव भेदः । 85संप्रति तस्योपाधिस्तालध्वनिभेद एव । तेन हि नृत्तं परिमीयते । यथोक्तं ‘पादन्यासो लयमनुगतः’ इति86 ।
अनन्तरोक्तं द्वितयं व्याचष्टे—
नृत्यं पदार्थाभिनयात्मकं मार्ग इति प्रसिद्धम् । नृत्तं तु87 देशीति ।
अनन्तरोक्तमिति । उक्तेः पूर्वभाव एवानन्तर्थम् । द्वितयम् = नृत्यनृत्तात्मकम् । द्वितयस्याद्यं नृत्यमन्यन्नृत्तमिति । पदार्थाभिनयरूपनृत्यं मार्ग इति प्रसिद्धम्, अपरं नृत्तं देशीति प्रसिद्धमिति ।
द्विविधस्यापि द्वैविध्यं दर्शयति—
सुकुमारं द्वयमपि लास्यम्, उद्धतं द्वितयमपि ताण्डवमिति । प्रसङ्गोक्तस्योपयोगं 88दर्शयति—नाटकाद्युपकारकमिति । नृत्यस्य क्वचिदवा- न्तरपदार्थामिनयरूपत्वेन89 नृत्तस्य च शोभाहेतुत्वेन नाटकादावुपयोग इति ।
द्विविधस्यापि = नृत्यनृत्तात्मना द्विविधस्यापि तस्य पुनरपि द्वैविध्यं दर्शयतीति । लास्यताण्डवरूपेणेति । नाटकाद्युपकारकमित्यनेन एकग्रन्थता मा भूदिति ततोऽपच्छिद्य90 द्वैविध्यप्रकारकथनपरतयोक्तम् । प्रसङ्गेनापि निष्प्रयोजनं न वक्तव्यम् । तेनाह प्रसङ्गोक्तस्येति । नृत्यनृत्तयोर्हि स्वप्राधान्ये सति नान्योपकारकत्वम् । तेनोक्तं क्वचिदिति ।