15 तत्साधनं व्युत्पादयति—
स्तोकोद्दिष्टः कार्यसाधकः 116परस्तादनेकप्रकारं विस्तारी हेतुविशेषो बीजवद् बीजम् । यथा रत्नावल्यां वत्सराजस्य रत्नावलीप्राप्तिहेतुरनुकूलदैवो यौगंधरायणव्यापारो विष्कम्भके न्यस्तः 117—
कः संदेहः ।
यथा च वेणीसंहारे द्रौपदीकेशसंयमनहेतुर्भीमक्रोधोपचितो120 युधिष्ठिरोत्साहो बीजमिति । तच्च महाकार्यावान्तरकार्यहेतुभेदादनेकप्रकारमिति ।
उद्देशगतमल्पत्वमिति दर्शयति स्तोकोद्दिष्टस्त्विति । बीजवद् बीजमिति बीजशब्दस्य गौणतामाह ।
तत्र121 अवान्तरबीजस्य संज्ञान्तरमाह—
यथा रत्नावल्यामवान्तरप्रयोजनानङ्गपूजापरिसमाप्तौ कथार्थविच्छेदे सत्यनन्तरकार्यहेतुः—
उदयनस्येन्दोरिवोद्वीक्षते ।
बिन्दुर्जले तैलबिन्दुवदिति बिन्दुशब्दोऽपि गौण इत्युक्तं भवति । कार्यार्थी कश्चित् कर्ता125 कमपि कार्यसाधकहेतुविशेषमवलम्ब्य हि व्याप्रियते । स चात्र परस्तादनेकधा विस्तारित्वात् प्रथमं बीजशब्दवाच्योऽभूत् । पश्चाद् बहुविधं प्रसारित्वाद् बिन्दुशब्दवाच्योऽभूत् । एवमुपर्यपि नेयमिति ।
-
N.S.P. purastād.
↩ -
Bracketed portion is missing in A.T.A.
↩ -
द्वीपादन्यस्माद् १।७ इति पठति
↩ - १।८↩
-
-upacitayudhiṣṭhirotsāho in N.S.P.
↩ -
N.S.P. omits tatra.
↩ -
saharṣaṃ parivṛtya saspṛhaṃ paśyantī is missing in N.S.P.
↩ -
‘कथमेष स उदयननरेन्द्रो यस्याहं तातेन दत्ता ।’ इति च्छाया.
↩ - रत्ना० पृ० ४०↩
-
T.MS. omits kartā, whereas all others read it.
↩