99 मलिनत्वं भवति । 578क्वचिदपि च सालक्तकपद इत्यनेन त्रैविक्रमं रतमुच्यते । तत् खलु कुड्याद्यवष्टम्भेन स्थितायाः उत्क्षिप्तैकपादायाः पादान्तरेण स्थितायाश्च भवति । वलीभङ्गाभोगैरेत्यनेन उत्तानशयनं रतमुच्यते । तदा हि प्रच्छदपटस्य वलीभङ्गो भवति । अलकपतितैः शीर्णकुसुमैरित्यनेन पुरुषायितमुच्यते । तेन579 ह्यलकेभ्यः कुसुमानि पतन्ति । तेन तेन तत्तज्जातीयान्तराणामप्युपलक्षणात् सर्वावस्थमित्याह ।
अथास्याः कोपचेष्टा—
सहावहित्थेनाकारसंवरणेनादरेण चोपचाराधिक्येन वर्तते सा सावहित्थादरा । रतावुदासीना क्रुधा कोपेन भवति ।
सावहित्थेतिसूत्रस्यायमर्थः । धीरा क्रुद्धा 580 सावहित्थादरा सती रतावुदास्ते । इतरा=अधीरा क्रुद्धा दयितं संतर्ज्य ताडयेत् । प्रगल्भमध्या=धीराधीरा तु मध्याधीरेव581 तं वदेदिति । तथैव व्याचष्टे सावहित्थेत्यादिना ।
सावहित्थादरा यथामरुशतके—
रतावुदासीना यथा—