103 छन्नं ये कामयन्ते ते छन्नकामाः श्रोत्रियवणिग्लिङ्गिप्रभृतयः, सुखार्थः= अप्रयासावाप्तधनः सुखप्रयोजनो वा, अज्ञः=मूर्खः, स्वतन्त्रः = निरङ्कुशः, अहंयुः = अहंकृतः, पण्डकः = 589बालषण्डादिः, एतान् बहुवित्तान् रक्तेव रञ्जयेदर्थार्थम् । तत्प्रधानत्वात्तद्वृत्तेः । गृहीतार्थान् कुट्टिन्यादिना निष्कासयेत् पुनः प्रतिसंधानाय । इदं तासामौत्सर्गिकं रूपम् ।
छन्नकाम इत्यत्र कामस्य छन्नत्वे प्रवृत्त्यनुपपत्तेः छन्नत्वं क्रियाविशेषणमित्याह छन्नं ये कामयन्त इति । सुखार्थ इत्यत्र अर्थशब्दः प्रयोजनवाची धनवाची वेत्याह अप्रयासावाप्तधन इत्यादिना । पण्डकशब्दः स्त्र्ययोग्यतामात्रवचन इत्याह पण्डको बालषण्डादिरिति । वस्तुतो रागविरहे कारणमाह अर्थार्थमिति । स्वयमनिष्कासने कारणमाह >पुनः प्रतिसंधानायेति । आसां रूपस्य क्वचिदपवादं वक्तुमाह इदं तासामिति ।
रूपकेषु तु—
प्रहसनवर्जिते प्रकरणादौ रक्तैवैषा विधेया । यथा मृच्छकटिकायां वसन्तसेना चारुदत्तस्य । प्रहसने त्वरक्तापि हास्यहेतुत्वात् । नाटकादौ तु दिव्यनृपनायकाश्रये नैव विधेया ।
सूत्रस्थाप्रहसनेतिविशेषणफलं विवृणोति प्रहसने त्वरक्तापीति । नैषा दिव्यनृपाश्रये इति शुद्धदिव्ये गणिका निषिध्यते । तेन दिव्यमर्त्ये विक्रमोर्वशीयादौ गणिका भवत्येवेति ।
अथ भेदान्तराणि—
-
N.S.P. vātapaṇḍādiḥ.
↩