108 यथा— उत्तिष्ठ दूति यामो यामो यातस्तथापि नायातः । यातः परमपि जीवेज्जीवितनाथो भवेत् तस्याः ॥
अथ प्रोषितप्रिया—
यथामरुशतके— आ दृष्टिप्रसरात् प्रियस्य पदवीमुद्वीक्ष्य निर्विण्णया विश्रान्तेषु पथिष्वहःपरिणतौ ध्वान्ते समुत्सर्पति । दत्त्वैकं सशुचा गृहं प्रति पदं पान्थस्त्रियास्मिन् क्षणे मा भूदागत इत्यमन्दवलितग्रीवं पुनर्वीक्षितम् ॥602
अथाभिसारिका—
यथामरुशतके— उरसि निहितस्तारो हारः कृता जघने घने कलकलवती काञ्ची पादौ रणन्मणिनूपुरौ । प्रियमभिसरस्येवं मुग्धे त्वमाहतडिण्डिमा यदि किमधिकत्रासोत्कम्पं दिशः समुदीक्षसे ॥603
यथा च— न च मेऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि । निपुणं तथैनमुपगभ्य वदेरभिदूति काचिदिति संदिदिशे ॥604
Generating a file for download may take up to a few minutes. Please wait.
This dialog should close automatically when the download has completed.