भेदान्तरमाह—
यथा—
किमवस्थः पुनरेषां वत्सराजादिर्नाटिकानायकः स्यादित्युच्यते । पूर्वमनुपजातनायिकान्तरानुरागोऽनुकूलः । परतस्तु दक्षिणः । ननु च गूढविप्रियकारित्वाद् व्यक्ततरविप्रियत्वाच्च शाठ्यधार्ष्ट्ये अपि कस्मान्न भवतः । न, तथाविधविप्रियत्वेऽपि वत्सराजादेरा प्रबन्धसमाप्तेर्ज्येष्ठां नायिकां प्रति सहृदयत्वाद् दक्षिणतैव । न चोभयोर्ज्येष्ठाकनिष्ठयोर्नायकस्य स्नेहेन न भवितव्यमिति वाच्यम्, अविरोधात् । महाकविप्रबन्धेषु च—