86 इत्यादावपक्षपातेन सर्वनायिकासु प्रतिपत्त्युपनिबन्धनात् । तथा च भरतः—
सुमानुषस्येति । शोभनस्य मानुषस्य । मानुषशब्दादण्प्रत्ययेऽपे मानुषमित्येव रूपं भवतीति । गूढविप्रियकारित्वाविशेषेऽपि दक्षिणत्वेनैव व्यवहारे किं कारणमित्यभिप्रेत्य पृच्छति किमवस्थः पुनरिति । नाटिकानायक इति विशिंषन् उभयनायिकावत्त्वं तस्यावश्यंभावीति ब्रूते । प्रष्टा स्वाभिप्रायमभिव्यनक्ति ननु चेति537 । नन्वेकस्य538 ज्येष्ठायां दाक्षिण्यमेव, कनिष्ठायां तु स्नेह एव । तत्राह न चेति । एकस्याविरुद्धमनेकनायिकाङ्गीकारमेव तर्शयति महाकविप्रबन्धेषु चेति । नन्वनेन ग्रन्थेन कनिष्ठायां कथमसाधारणस्नेहो निषिद्धः । तत्राह अनुरागं न याति न मदनस्य वशमेतीत्यनेनेति ।
सहायानाह—
प्रागुक्तप्रासङ्गिकेतिवृत्तविशेषः पताका । तन्नायकः पीठमर्दः प्रधानेतिवृत्तनायकस्य सहायः । यथा मालतीमाधवे मकरन्दः, रामायणे सुग्रीवः ।