158 तादृशीति नृपवंशजत्वादिधर्मातिदेशः ।
तस्यां मुग्धानायिकायामन्तः पुरसंबन्धसंगीतकसंबन्धादिना प्रत्यासन्नायां नायकस्य देवीप्रतीबन्धान्तरित उत्तरोत्तरो नवावस्थानुरागो निबन्धनीयः ।
प्रत्यङ्कोपनिबद्धाभिहितलक्षणकैशिक्यङ्गचतुष्टयवती नाटिकेति ।
अथ भाणः—
धूर्ताश्चोरद्यूतकारादयस्तेषां चरितं यत्रैक एव विटः स्वकृतं परकृतं वोपवर्णयति स भारतीवृत्तिप्रधानत्वाद् भाणः । एकस्य चोक्तिप्रत्युक्तय आकाशभाषितैराशङ्कितोत्तरत्वेन भवन्ति । अस्पष्टत्वाच्च वीरशृङ्गारौ सौभाग्यशौर्योपवर्णनया सूचनीयौ ।
भाणलक्षणं तु स्पष्टम् ।