136 पूर्वं रज्यतेऽस्मिन्निति पूर्वरङ्गः 695उत्थापनादिप्रयोगः । नाट्यशालायां तात्स्थ्यात् । प्रथमं प्रयोगे तद् उत्थापनादौ पूर्वरङ्गत्वम् । तं विधाय विनिर्गते प्रथमं सूत्रधारे तद्वदेव वैष्णवस्थानकादिना प्रविश्यान्यो नटः काव्यार्थं स्थापयेत् । स च काव्यार्थस्थापनात् सूचनात् स्थापकः ।
पूर्वरङ्गशब्दार्थमाह पूर्वं रज्यतेऽस्मिन्निति। अभिनयात् पूर्वं सामाजिकैरुत्थापनादिप्रयोगे हि 696रज्यत इति । तर्हि नाट्यशालायां कथं पूर्वरङ्गशब्दप्रयोगः । तत्राह तात्स्थ्यादिति697 । तत्स्थः खलूत्थापनादिप्रयोगः । तेनेदं तात्स्थ्यमादाय नाट्यशालापि तथोच्यत इति । वैष्णवस्थानकादिना। 698विष्णुसंबन्धवेषप्रभृतिना ।
स स्थापको दिव्यं वस्तु दिव्यो भूत्वा मर्त्यं च मर्त्यरूपो भूत्वा मिश्रं च दिव्यमर्त्ययोरन्यतरो भूत्वा सूचयेत् । वस्तु बीजं मुखं पात्रं वा ।
दिव्यमर्त्ये इति। शुद्धदिव्यं वस्तु शुद्धदिव्यो भूत्वा मर्त्यं वस्तु मर्त्यो भूत्वा मिश्रं वस्तु दिव्यमर्त्ययोरन्यतरो भूत्वा=दिव्यो मर्त्यो वा भुत्वा सूचयेत् । सूचयंश्च तत्रापि वस्तु बीजं मुखं पात्रं वा सूचयेदित्यर्थः । तथा व्याचष्टे स स्थापक इत्यादिना।
वस्तु यथोदात्तराघवे—
-
Up to nāṭyaśālāyāṃ tātsthyāt is clear in A.T.A. The next line is not very clear. N.S.P. reads here pūrvaraṅgo nāṭyaśālā. tatsthaprathamaprayogavyutthāpanādau pūrvaraṅgatā. A.T.A. reading seems to be confirmed by Bh. Nṛ.
↩ -
Only T.M.S. reads prayoge ’bhirajyata iti. See >Nāṭyaśāstra (G.O.S.) V. 22, etc. and Abhinavabhāratī on page 216.
↩ -
N.S.P. does not give it. But according to Bh.Nṛ. it seems it has to be.
↩ -
See also Abhinavabhāratī under X. 53.
↩