162 संधयः । अङ्कस्त्वेकः । अस्त्रीनिमित्तः संग्रामः । यथा जामदग्न्यजय इति । तथा दर्शयति ख्यातेतिवृत्तेत्यादिना ।781
अथ समवकारः—
समवकीर्यन्तेऽस्मिन्नर्था इति समवकारः । तत्र नाटकादिवदामुखमिति समस्तरूपकाणामामुखप्रापणम् । विमर्शवर्जिताश्चत्वारः संधयः । देवासुरादयो द्वादश नायकाः । तेषां च फलानि पृथक् पृथग् भवन्ति । यथा समुद्रमन्थने वासुदेवादीनां लक्ष्म्यादिलाभः । वीरश्चाङ्गी । अङ्गभूताश्च सर्वे रसाः । त्रयोऽङ्काः । तेषां प्रथमो द्वादशनाडिकानिर्वृत्तेतिवृत्तप्रमाणः । यथासंख्यं चतुर्द्विनाडिकावन्त्यौ । नाडिका च=घटिकाद्वयम् । प्रत्यङ्कं च यथासंख्यं कपटाः । तथा