163 नगरोपरोधयुद्धवाताग्न्यादिविद्रवाणां मध्य एकैको विद्रवः कार्यः । धर्मार्थकामशृङ्गाराणामेकैकः शृङ्गारः प्रत्यङ्कमेव विधातव्यः । वीथ्यङ्गानि च यथालाभं कार्याणि । बिन्दुप्रवेशकौ नाटकोक्तावपि न विधातव्यौ । इत्ययं समवकारः ।
समवकारे तु नाटकादिवत् प्रथममामुखं कार्यम् । प्रख्यातदेवासुरमितिवृत्तम् । विमर्शरहिताश्चत्वारः संधयः । वृत्तिषु चतसृष्वपि कैशिकी स्वल्पाभिधातव्या । देवदानवप्रभृतयो द्वादश नायकाः । तेषां नायकानां पृथक् पृथक् फलानि । अङ्गी तु रसो वीरः । इतरे तु रसास्तदङ्गम् । त्रयोऽङ्काः । त्रिष्वङ्केषु प्रथमोऽङ्को द्विसंधिः । त्रयोऽप्यङ्काः यथाक्रमं कपटैस्त्रिभिः, शृङ्गारैस्त्रिभिः, विद्रवैस्त्रिभिश्च युक्ता विधातव्याः । अत्र कालपरिमाणकथनमितिवृत्तपरिमाणाय । उदाहरणम् अम्भोधिमन्थनम् । तथा दर्शयति कार्यं समवकारे783 स्यादित्यादिना । किमस्यैवामुखयोगित्वं विशेषः । नेत्याह समस्तरूपकाणामिति ।
अथ वीथी—
वीथीवद् वीथी मार्गः । अङ्गादीनामुपपत्तिः784 भाणवत् कार्या विशेषस्तु रसः शृङ्गारोऽपरिपूर्णत्वाद्भूयसा सूच्यः । रसान्तराण्यपि स्तोकं स्पर्शनीयानि । कैशिकी वृत्तिरिह रसौचित्यादेवेति । शेषं स्पष्टम् ।
वीथी तु भाणवत् कार्या । विशेषस्तु कैशिकी वृत्तिः । संध्यङ्गानि च अङ्काश्च भाणवत् कार्याः । रसः शृङ्गारः । रसान्तराणि च स्वल्पानि