भगिनी भगवती सुभगा दुर्भगेत्यादि सर्वत्रैव शास्त्रे काव्ये लोके चानुमन्यते आद्रियते । ततस्तादृशमग्राम्यं सभ्यमेव । ततश्च प्रयुज्यते एव कविभिः ॥
माधुर्यं निगमयन्नाह—विभक्तमित्यादि । इत्यनेन प्रकारेण माधुर्यं विभक्तं निर्दिष्टम् । सुकुमारतेदानीमुच्यते निर्दिश्यते तदनन्तरमुपदिष्टत्वादिति ॥
अनिष्ठुराणि अपरुषाणि अक्षराणि वर्णाः प्रायाणि भूयांसि यस्मिंस्तथा अनिष्ठुरैर्वाक्षरैः प्रायं समधिकं काव्यमित्यनूद्य सुकुमारमपरुषमिष्यत इति विधिः । निष्ठुराणि तु स्वल्पानीति प्रायग्रहणेन सूचितम । इहेति वैदर्भमार्गे सर्वानिष्ठुराक्षरं किं न सुकुमारमिंष्यत इति चेदाह—बन्धेत्यादिं । हिर्यस्मात्सर्वाणिं अक्षराणि कोमलानिं सुकुमाराणि यस्मिंस्तत्तथा । सर्वैरेवाक्षरैः कोमलं तस्मिन् काव्ये बन्धस्य निवेशनस्य शैथिल्यं लाघवं तदेव दोषो वैकृतं दर्शित उदाहृतः पूर्वम् । मालतीमाला लोलालिंकलितेति60 । तस्मादनिष्ठुराक्षरप्रायमेव सुकुमारमिहेष्यते न सर्वानिष्ठुराक्षरमिति योज्यम ॥
- १.४३↩