14a संज्ञामित्येकैव जातिः संज्ञाद्वयाङ्कितेति सूक्तमेव ॥
तदेवं लक्षणतः [प्रचि]न्वन् कथां, आश्वासादिभेदं च गद्यं निर्दिश्य, तृतीयं मिश्रकाव्ये शरीरमधिकृत्याह—
नाटकमादिर्येषाम् प्रकरणादीनां तानि नाटकादीनि काव्यानीत्यत्र मिश्राणि गद्यपद्यमयानि वेदितव्यानि इति मिश्रविधिः । ननु कथादिकमपि मिश्रं तत्रापि पद्यप्रवेशात् । प्रसङ्गेन तत्र पद्यप्रवेशः, नाधिकारितया । अतएवोक्तं प्रसङ्गेन कथास्वपीति36 । नाटकादिषूभयमपि अधिकृतमिति नाटकान्येव मिश्राणि । किमेषां लक्षणं लक्षणप्रभेदो वेत्यत आह—तेषामित्यादि । तेषां नाटकादीनां मिश्राणां मिश्रप्रबन्धानामन्यत्र भरतकोहलादौ नाट्यशास्त्रे विस्तरः नान्दीप्ररोचनादिस्वरूपनिरूपणादिरूपः प्रपञ्चोऽधिकृतो नेह । ततस्ततोऽसौ द्रष्टव्यः । गद्यपद्यप्रबन्धस्त्विह विस्तरतोऽधिकृतः । स चोक्तः । किं नाटकादिकमेव मिश्रं नेत्याह—गद्यपद्येत्यादि । गद्यपद्ययोविकारः गद्यपद्यमयी मिश्रा चम्पूरित्यपेक्ष्य स्त्रीत्वम् । यदाह चम्पूरिति । चम्पूर्नाम विद्यते । कापि काचिदित्यसाकल्य[म्] । अपिशब्दो न केवलं पूर्वकमिति समुच्चिनोति । अयमपि
- १.२६↩