कानि पुनस्तानि षट् प्रयोजनानि—
विवक्षितार्थनिबन्धनं गोप्यार्थगोपनं प्रकाश्यार्थप्रकाशनमभिनयरागवृद्धिश्चमत्कारित्वं444 च काव्यस्येतिवृत्तस्य विस्तर इत्यङ्गैः षट् प्रयोजनानि संपाद्यन्त इति ।
64नन्वङ्गिनि सति तेनैवालम् । किमङ्गैः । तत्राह इष्टस्येति । विवृणोति विवक्षितार्थेति । अङ्गिना एकेनैव बहूनि परस्परविरुद्धानि च प्रयोजनानि संपादयितुं न शक्यन्ते । तस्माद् बहूनामेव तदङ्गानां बहुविधप्रयोजनसंपादकत्वात् सप्रयोजनत्वमिति । अभिनयरागवृद्धिरिति । अभिनयदर्शनेन सामाजिकानां कुतूहलवृद्धिरित्यर्थः । आश्चर्यमित्यस्य विवरणं काव्यस्य चमत्कारित्वमिति ।
-
N.S.P. abhineyarāga, etc.
↩