525
अथ विंशः परिच्छेदः
मंगलाचरण.
वीरजिनावसानवृषभादिजिनानभिवंद्य ।
घोरसंसारमहार्णवोत्तरणकारणधर्मपथोपदेशकान् ॥
सारतरान् समस्तविषमामयकारणलक्षणाश्रयै--।
र्भूरिचिकित्सितानि सहकर्मगणैः कथयाम्यशेषतः ॥ १ ॥
भावार्थः--The Hindi commentary was not digitized.
सप्त धातु+ओंकी उत्पत्ति.
आहृतसान्नपानरसतो रुधिरं, रुधिराच्च मांसम--।
स्मादपि मांसतो भवति मेद, इतोऽस्थि ततोऽपि ॥
मज्जातः शुभशुक्रमित्यभिहिता, इह सप्तविधाश्चधातवः ।
सोष्णसुशीतभूतवशतश्च विशेषितदोषसंभवाः ॥ २ ॥
भावार्थः--The Hindi commentary was not digitized.
रोग के कारण लक्षणाधिष्ठान.
षड्विधकारणान्यनिलपित्तकफासृगशेषतोभिघा--।
तक्रमतोऽभिघातरहितानि पंच सुलक्षणान्यपि ॥