651
गंडूष के द्रव का प्रमाण और कवलविधि.
गंडूषसद्रवगतं परिमाणमत्र प्रोक्तं मुखार्धमिति नान्यदतोस्ति किंचित् ।
पूर्णे मुखे भवति तद्द्रवमत्र चाल्यं हीनं न दोषहरमत्र भवेदशेषम् ॥ ५५ ॥
भावार्थः--The Hindi commentary was not digitized.
तस्मान्मुखार्धपरिमाणयुतं द्रवं तं निश्शेषदोषहरणाय विधेयमेवं ।
शुष्कौषधैश्च कबलं विधिवद्विधाय संचर्व्यतां हरणमिच्छदशेषदोषम् ॥ ५६ ॥
भावार्थः--The Hindi commentary was not digitized.
नस्यवर्णन प्रतिज्ञा व नस्य के दो भेद.
एवं विधाय विधिवत्कबलग्रहाख्यं नस्यं ब्रवीमि कथितं खलु संहितायाम् ।
नस्यं चतुर्विधमपि द्विविधं यथावत् यत्स्नेहनार्थमपरं तु शिरोविरेकम् ॥ ५७ ॥
भावार्थः--The Hindi commentary was not digitized.
स्नेहन नस्य का उपयोग.
यत्स्नेहनार्थमुदितं गलरक्तमूर्धास्कंधोरसां बलकरं वरदृष्टिकृत्स्यात् ।
वाताभिघातशिरसि स्वरदंतकेशश्मश्रुप्रशातखरदारुणके विधेयम् ॥ ५८ ॥
भावार्थः--The Hindi commentary was not digitized.
स्नेहननस्य का उपयोग.
कर्णामयेषु तिमिरे स्वरभेदवक्त्रशोषेऽप्यकालपलिते वयबोधनेऽपि ।
पित्तानिलप्रभववक्त्रगतामयेषु सुस्नेहनाख्यमधिकं हितकृन्नराणाम् ॥ ५९ ॥