712
रिष्टप्रकट होने पर मुमुक्षु+आत्माका कर्तव्य.
एवं साक्षाद्दृष्टरिष्टो विशिष्टस्त्यक्त्वा सर्वं वस्तुजालं कलत्रं ।
गत्वोदीचीं तां दिशं वा प्रतीचीं ज्ञात्वा सम्यग्रम्यदेशं विशालम् ॥ ३२ ॥
निर्जंतुके निर्मलभूमिभागे निराकुले निस्पृहतानिमित्ते ।
तीर्थे जिनानामथवालये वा मनोहरे पद्मवने वने वा ॥ ३३ ॥
विचार्य पूर्वोत्तरसद्दिशां१ तां भूमौ शिलायां शिकतासु वापि ।
विधाय तत्क्षेत्रपतेस्सुपूजामभ्यर्चयेज्जैनपदारविंदम् ॥ ३४ ॥
एवं समभ्यर्च्य जिनेंद्रवृंदं नत्वा सुदृष्टिः प्रविनष्टभीतिः ।
ध्यायेदथ ध्यानमपीह धर्म्यं संशुक्लमात्मीयबलानुरूपम् ॥ ३५ ॥
एवं नमस्कारपदान्यनूनं विचिंतयेज्जैनगुणैकसंपत् ।
ममापि भूयादिति मुक्तिहेतून् समाधिमिच्छन्मनुजेषु मान्यः ॥ ३६ ॥
भावार्थः--The Hindi commentary was not digitized.
रिष्टर्वणनका उपसंहार.
उग्रादित्यमुनींद्रवाक्प्रकटितं स्वस्थेषु रिष्टं विदि--।
त्वा तत्सन्मुनयो मनस्यनुदिनं संधार्य धैर्यादिकान् ॥
-
सत्प्रयाबा इति पाठांतरं ॥
↩