अध्यायः 026
युधिष्ठिरेण व्यासंप्रति निर्वेदवचनम् ॥ 1 ॥ व्यासेन युधिष्ठिरंप्रति राज्यपालनविधानम् ॥ 2 ॥
युधिष्ठिर उवाच ।
अभिमन्यौ हते बाले द्रौपद्यास्तनयेषु च ।
धृष्टद्युम्ने विराटे च द्रुपदे च महीपतौ ॥
वृषसेने च धर्मज्ञे धृष्टकेतौ तु पार्थिवे ।
तथाऽन्येषु नरेन्द्रेषु नानादेश्येषु संयुगे ॥
न च मुञ्चति मां शोको ज्ञातिघातिनमातुरम् ।
राज्यकामुकमत्युग्रं स्ववंशोच्छेदकारिणम् ॥
यस्याङ्के क्रीडमानेन मया विपरिवर्तितम् ।
स मया राज्यलुब्धेन गाङ्गेयो युधि पातितः ॥
यदा ह्येनं विघूर्णन्तं मदर्थं पार्थसायकैः ।
तक्ष्यमाणं यथा वज्रैः प्रेक्षमाणं शिखण्डिनम् ॥
जीर्णसिंहमिव प्राज्ञं नरसिंहं पितामहम् ।
कीर्यमाणं शरैर्दीप्तैर्दृष्ट्वा मे व्यथितं मनः ॥
प्राड्भुखं सीदमानं च रथात्पररथारुजम् ।
घूर्णमानं यथा शैलं तदा मे कश्मलोऽभवत् ॥
यः सवाणधनुष्पाणिर्योधयामास भार्गवम् ।
बहून्यहानि कौरव्यः कुरुक्षेत्रे महामृधे ॥
समेतं पार्थिवं क्षत्रं वाराणस्यां नदीसुतः ।
कन्यार्थमाह्वयद्वीरो रथेनैकेन संयुगे ॥
येन चोग्रायुधो राजा चक्रवर्ती दुरासदः ।
दग्धश्चास्त्रप्रतापेन स मया युधि पातितः ॥
स्वयं मृत्युं रक्षमाणः पाञ्चाल्यं यः शिखण्डिनम् ।
न बाणैः पातयामास सोऽर्जुनेन निपातितः ॥
यदैनं पतितं भूमावपश्यं रुधिरोक्षितम् ।
तदैवाविशदन्युग्रो ज्वरो मां मुनिसत्तम ॥
येन संवर्धिता बाला येन स्म परिरक्षिताः ।
स मया राज्यलुब्धेन पापेन गुरुधातिना ।
अल्पकालस्य राज्यस्य कृते मूढेन पातितः ॥
आचार्यश्च महेष्वासः सर्वपार्थिवपूजितः ।
अभिगम्य रणे मिथ्या पापेनोक्तः सुतं प्रति ॥
तन्मे दहति गात्राणि यन्मां गुरुरभाषत ।
सत्यमाख्याहि राजंस्त्वं यदि जीवति मे सुतः ॥
सत्यमामर्शयन्विप्रो मयि तत्परिपृष्टवान् ।
कुञ्जरं चान्तरं कृत्वा मिथ्योपचरितो मया ॥
सुभृशं राज्यलुब्धेन पापेन गुरुघातिना ।
सत्यकञ्चुकमुन्मुच्य मया स गुरुराहवे ॥
अश्वत्थामा हत इति निरुक्तः कुञ्जरे हते ।
काँल्लोकांस्तु गमिष्यामि कृत्वा कर्म सुदुष्करम् ॥
अघातयं च यत्कर्णं समरेष्वपलायिनम् ।
ज्येष्ठभ्रातरमत्युग्रः को मत्तः पापकृत्तमः ॥
अभिमन्युं च यद्वालं जातं सिंहमिवाद्रिषु ।
प्रावेशयमहं लुब्धो वाहिनीं द्रोणपालिताम् ॥
तदाप्रभृति वीभत्सुं न शक्नोमि निरीक्षितुम् ।
कृष्णं च पुण्डरीकाक्षं किल्विषी भ्रूणहा यथा ॥
द्रौपदीं चाप्यदुःखार्हां पञ्चपुत्रैर्विनाकृताम् ।
शोचामि पृथिवीं हीनां पञ्चभिः पर्वतैरिव ॥
सोऽहमागस्करः पापः पृथिवीनाशकारकः ।
आसीन एवमेवेदं शोषयिष्ये कलेवरम् ॥
प्रायोपविष्टं जानीध्वमथ मां गुरुघातिनम् ।
जातिष्वन्यास्वपि यथा न भवेयं कुलान्तकृत् ॥
न भोक्ष्ये न च पानीयमुपयोक्ष्ये कथंचन ।
शोषयिष्ये प्रियान्प्राणानिहस्थोऽहं तपोधनाः ॥
यथेष्टं गम्यतां काममनुजाने प्रसाद्य वः ।
सर्वे मामनुजानीत त्यक्ष्यामीदं कलेवरम् ॥
वैशंपायन उवचा ।
तमेवंवादिनं पार्थं बन्धुशोकेन विह्वलम् ।
मैवमित्यब्रवीद्व्यासो निगृह्य मुनिसत्तमः ॥
व्यास उवाच ।
अतिवेलं महाराज न शोकं कर्तुमर्हसि ।
पुनरुक्तं तु वक्ष्यामि दिष्टमेतदिति प्रभो ॥
संयोगा विप्रयोगाश्च जातानां प्राणिनां ध्रुवम् ।
बुद्धुदा इव तोयेषु भवन्ति न भवन्ति च ॥
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥
सुखं दुःखान्तमालस्यं दाक्ष्यं दुःखं सुखोदयम् ।
भूतिः श्रीर्ह्रीर्धृतिः कीर्तिर्दक्षे वसति नालसे ॥
नालं सुखाय सुहृदो नाले दुःखाय शत्रवः ।
न च प्रज्ञालमर्थेभ्यो न सुखेभ्योऽप्यलं धनम् ॥
यथा सृष्टोऽसि कौन्तेय धात्रा कर्मसु तत्क्ररु ।
अत एव हि सिद्धिस्ते नेशस्त्वं ह्यात्मनो नृप ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षङ्विशोऽध्यायः ॥ 26 ॥
12-26-2 वृषसेने कर्णे ॥ 12-26-7 पररथारुजं पररथानां पीडकम् ॥ 12-26-16 आमर्शयन्निश्चिन्वन् ॥ 12-26-28 अतिवेलमत्यर्थम् ॥ 12-26-39 आलस्यं तत्काले सुखमपि दुःखान्तम् । दाक्ष्यं तत्काले दुःखमपि सुखोदयम् । भूतिः अणिमादिः ॥