215-a
अहिपूतनके धात्र्याः पूर्वं स्तन्यं विशोधयेत् ।
त्रिफलाखदिरक्वाथैर्ब्रणानां धावनं सदा ॥ २३ ॥
करञ्जत्रिफलातिक्तैः सर्पिः सिद्धं शिशोर्हितम् ।
रसाञ्जनं विशेषेण पानालेपनयोर्हितम् ॥ २४ ॥
गुदभ्रंशे गुदं स्नेहैरभ्यज्याशु प्रवेशयेत् ।
प्रविष्टे स्वेदयेच्चापि बद्धं गोष्फणया भृशम् ॥ २५ ॥
कोमलं पद्मिनीपत्रं यः खादेच्छर्करान्वितम् ।
एतन्निश्चित्य निर्दिष्टं न तस्य गुदनिर्गमः ॥ २६ ॥
वृक्षाम्लानलचाङ्गेरीबिल्वपाठायवाग्रजम् ।
तक्रेण शीलयेत्पायुभ्रंशार्तोऽनलदीपनम् ॥ २७ ॥
गुदं च गव्यपसया म्रक्षयेदविशङ्कितः ।
दुष्प्रवेशो गुदभ्रंशो विशत्याशु न संशयः ॥ २८ ॥
मूषिकाणां वसाभिर्वा गुदे सम्यक्प्रलेपनम् ।
स्विन्नमूषिकमांसेन चाथवा स्वेदयेद्गुदम् ॥ २९ ॥
चाङ्गेरीकोलदध्यम्लनागरक्षारसंयुतम् ।
घृतमुत्क्वथितं पेयं गुदभ्रंशरुजापहम् ।
शुण्ठीक्षारावत्र कल्कौ शिष्टं तु द्रवमिष्यते ॥ ३० ॥