216-a
निर्मोकभस्मघर्षाद्वा मसः शान्तिं व्रजेत्सदा ।
युवानपिडकान्यच्छनीलिकाव्यङ्गशर्कराः ॥ ३९ ॥
शिराव्यधैः प्रलेपैश्च जयेदभ्यञ्जनैस्तथा ।
लोध्रधान्यवचालेपस्तारुण्यपिडकापहः ॥ ४० ॥
तद्वद्गोरोचनायुक्तं मरिचं सुखलेपतः ।
सिद्धार्थकवचालोध्रसैन्धवैश्च प्रलेपनम् ॥ ४१ ॥
वमनं च निहन्त्याशु पिडकां यौवनोद्भवाम् ।
व्यङ्गेषु चार्जुनत्वग्वा मञ्जिष्ठा वा समाक्षिका ॥ ४२ ॥
लेपः सनवनीता वा श्वेताश्वखुरजा मसी ।
रक्तचन्दनमञ्जिष्ठालोध्रकुष्ठप्रियङ्गवः ॥ ४३ ॥
वटाङ्कुरमसूराश्च व्यङ्गघ्ना मुखकान्तिदाः ।
व्यङ्गानां लेपनं शस्तं रुधिरेण शशस्य च ॥ ४४ ॥
मसूरैः सर्पिषा पिष्टैर्लिप्तमास्यं पयोऽन्वितैः ।
सप्ताहाच्च भवेत्सत्यं पुण्डरीकदलप्रभम् ॥ ४५ ॥
मातुलुङ्गजटासर्पिःशिलागोशकृतो रसः ।
मुखकान्तिकरो लेपः पिडकातिलकालजित् ॥ ४६ ॥
नवनीतगुडक्षौद्रकोलमज्जप्रलेपनम् ।
व्यङ्गजिद्वरुणत्वग्वा छागक्षीरप्रपेषिता ॥ ४७ ॥
जातीफलकल्कलेपो नीलिव्यङ्गादिनाशनः ।
सायं च कटुतैलेनाभ्यङ्गो वक्त्रप्रसादनः ॥ ४८ ॥