तत्रालम्बनविभावो यथा—
अस्याः सर्गविधाविति । अस्या इत्यनेन813 लावण्यशृङ्गारसौन्दर्यातिशयः प्रतिपाद्यते । तथाहि अस्याः स्रष्टा प्रायेण चन्द्र एव । स हि कान्तप्रभः । विशेषेण स्रष्टापि मदन एव । स हि शृङ्गारैकरसः । उत मधुमास एव । स हि पुष्पाकरः । मुनेरेव सृष्टिकौशलमाशङ्क्य तस्य सांक्रामिकं स्वाभाविकं च कौशलं निषेधति वेदाभ्यासजड इत्यादिना । विषयव्यावृत्तकौतूहलत्वे हेतुः पुराण इति । वेदाभ्यासजडत्वे हेतुः मुनिरिति ।