134
चेष्टागुणोदाहृतसत्त्वभावान्
विशेषतो नेतृदशाविभिन्नान् ।
को वक्तुमीशो भरतो न यो वा
यो वा न देवः शशिखण्डमौलिः ॥ ७२ ॥
इति धनंजयविरचिते दशरूपके द्वितीयः प्रकाशः
दिङ्मात्रं दर्शितमित्यर्थः । चेष्टाः=लीलाद्याः, गुणाः=विनयाद्याः, सत्त्वं=निर्विकारात्मकं मनः, भावः=सत्त्वस्य प्रथमो विकारः, तेन हावादयो ह्युपलक्षिताः ।
इति श्रीविष्णुसूनोर्धनिकस्य कृतौ दशरूपावलोके नेतृप्रकाशो नाम द्वितीयः प्रकाशः समाप्तःचेष्टागुणेति । चेष्टया गुणैश्च उदाहृतम्690 उन्नीतम् सत्त्वं भावश्च येषां तान् 691विशेषतो नायकदशायां धीरप्रशान्तादिभेदेन भिन्नान् नायकान् न केवलमहमेव अन्योऽपि को वक्तुमीशः यो भरतो न भवति । यो वा देवः शशिखण्डमौलिर्न भवतीत्यर्थः । तर्हि कथं त्वयोच्यते । तत्राह दिङ्मात्रमिति ।