अथ विषादः—
प्रारब्धकार्यासिद्ध्यादेर्विषादः सत्त्वसंक्षयः ।
निःश्वासोच्छ्वासहृत्तापसहायान्वेषणादिकृत् ॥ ३१ ॥
यथा वीरचरिते—
हा आर्ये ताटके, किं हि नामैतत् । अम्वुनि मज्जन्त्यलाबूनि, ग्रावाणः प्लवन्ते ।
891892
नन्वेष राक्षसपतेः स्खलितः प्रतापः
प्राप्तोऽद्भुतः परिभवो हि मनुष्यपोतात् ।
दृष्टः स्थितेन च मया स्वजनप्रमाथो
दैन्यं जरा च निरुणद्धि कथं करोमि ॥