विशेषलक्षणान्युच्यन्ते—तत्राचार्येण स्थायिनां रत्यादीनां शृङ्गारादीनां च पृथग् लक्षणानि विभावादिप्रतिपादनेनोदितानि । अत्र तु—
क्रियत इति शेषः ।1075
तत्र तावच्छृङ्गारः—
इत्थमुपनिबध्यमानं काव्यं शृङ्गारास्वादाय भवतीति । 1076रत्युपदेशपरमेतत् ।
नन्वाचार्येण रसभावयोः पृथग् लक्षणमुक्तं चेत् त्वयापि तद्वत् पृथगेव तयोर्लक्षणमुच्यताम् । तत्राह अत्रेति । स्थायिनः परिणतिविशेष एव हि रसः । अतस्तयोर्भेदाभावात् । अभिन्ना एव वस्तुतो विभावादयः । तेन तेषां लक्षणमपि तन्त्रेणोच्यत् इत्यर्थः । लक्षणैक्यमित्येतावति पर्यवस्यति सूत्रम् इति भाति । तेनाह क्रियत इति शेष इति । अत्र लक्षणैक्यं क्रियत इत्यर्थः 1077रत्युपदेशपरमेतदिति । एवमुपनिबध्यमाना रतिः शृङ्गारो भवतीत्युक्तम् । एतद् रत्युपदेशपरमेव । अपरि शृङ्गारप्रपञ्चस्य प्रतिपादयिष्यमाणत्वात् ।